________________
आयारो आचालो आगालो आगरो य आसासो। आयरिसो अंगंति य आइण्णाऽऽजाइ आमोक्खा ॥७॥
आचर्यते आसेव्यत इत्याचारः, स च नामादिचतुर्दा, तत्र ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तो द्रव्याचारोऽनया गाथयाऽनुसतव्यः-णामणधोयणवासणसिक्खावणसुकरणाविरोहीणि । दव्वाणि जाणि लोए दबायारं वियाणाहि ॥१॥ भावाचारो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः पापण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति
स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिकः, तत्र ज्ञानाचारोऽष्टधा, तद्यथा-काले विणए बहुमाणे उवहाणे हातहा अणिण्हवणे । वंजणअत्थतदुभए अहविहो णाणमायारो ॥१॥' दर्शनाचारोऽप्यष्टधैव, तद्यथा-'निस्संकियनिक्कंखिय निन्वितिगिच्छा अमूढदिही य । उववूहथिरीकरणे वच्छल्लपभावणे अह ॥२॥' चारित्राचारोऽप्यष्टधैव,–'तिन्नेव य गुत्तीओ पंच समिइओ अह मिलियाओ । पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो ॥३॥' तपआचारो द्वादशधा, तद्यथा-'अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य
*********
१नामनधावनवासन शिक्षणसुकरणाविरोधीनि । द्रव्याणि यानि लोके द्रव्याचार विजानीहि ॥१॥
२ कालो विनयः बहुमानः उपधानं तथा अनिहवः । व्यशनमधस्तदुभयस्मिन् अष्टविधो ज्ञानाचारः ॥१॥ निश्शक्तिो निष्कातितो निर्विचिकित्सोऽमूढदृष्टिव । उपवंहा स्थिरीकरणं वात्सल्यं प्रभावनाऽटौ ॥२॥ तिस्र एव च गुप्तयः पञ्च समितयोऽष्ट मिलिताः । प्रवचनमातर इमास्तामु स्थितधरणसंपन्नः ॥३॥ अनशनमवमौदर्य वृत्तिसंक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥४॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव खाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति ॥ ५॥ अनिगूहितबलवीर्यः पराक्रमते यो यथोकमायुक्तः । युनक्ति च यथास्थाम ज्ञातव्यः स वीर्याचारः ॥६॥
***