SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ५ ॥ बज्झो तवो होइ ॥ ४ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोविय अग्भितरओ तवो होइ ॥ ५ ॥ वीर्याचारस्त्वनेकधा - 'अणि गूहियबल विरिओ परकमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायव्वो वीरियायारो ॥ ६ ॥ एष पञ्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानीमाचालः, आचाल्यतेऽनेनातिनिविडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पश्चधा । इदानीमागालः, आगालनमागालः- समप्रदेशावस्थानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्न प्रदेशावस्थानं, भावागालो ज्ञानादिक एव तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा । इदानीमाकरः आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरलानामत्र लाभात् । इदानीमाश्वासः, आश्वसन्त्यस्मिन्नित्याश्वासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आदृश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तो दर्पणः, भावादर्श उक्त एव, यतोऽस्मि - नितिकर्त्तव्यता दृश्यते । इदानीमङ्गम्, अज्यते व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामाद्येव, तत्र व्यतिरिक्तं शिरोबाह्रादि, भावाङ्गमयमेवाचारः । इदानीमाचीर्णम्-आसेवितं तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्णे सिंहादेस्तृणादिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्ण वाल्हीकेषु सक्तवः कोङ्कणेषु पेया, कालाचीर्ण त्विदं- 'सरसो चंदणपंको अग्घइ सरसा य गंधकासाई । पाडलिसिरीसमल्लिय पियाइँ काले निदाहंमि ॥ १ ॥' भावाचीर्णे तु ज्ञानादिपञ्चकं, तत्प्रतिपादकश्चाचा १ सरसचन्दनपङ्कोऽर्घति सरसा च गन्धकाषायिकी । पाटलशिरीषमल्लिकाः प्रियाः काले निदाघे ॥ १ ॥ अध्ययनं १ उद्देशकः १ ॥ ५ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy