________________
४
श्रीआचाराङ्गवृत्तिः (शी०)
चरणदिग्वर्जानां चतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथा- अध्ययनं १ ४ सम्भवमायोज्यम् ॥ ३॥ नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाहजत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थविय न जाणिज्जा चउक्कयं निक्खिवे तत्थ ॥४॥
उद्देशकः१ 'यत्र' चरणदिक्शब्दादौ यं निक्षेप-क्षेत्रकालादिकं जानीयात्तं तत्र निरवशेष निक्षिपेद्, यत्र तु निरवशेषं न जानीयादाचाराङ्गादौ तत्रापि नामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः ॥४॥प्रदेशान्तरप्रसिद्धस्या-18 र्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽभ्यधायि
आयारे अंगंमि य पुवुद्दिट्टो चउक्कनिक्खेवो । नवरं पुण नाणत्तं भावायारंमि तं वोच्छं ॥५॥ क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते-'भावाचारविषय' इति ॥५॥ यथाप्रतिज्ञातमाह
तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे । समोयारे सारो य सत्तहि दारेहि नाणत्तं ॥ ६ ॥ _ 'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः-प्रवर्तनमाचारस्याभूत् तच्च वाच्यं, तथा प्रथमाङ्गता च वाच्या, तथा गणी-आचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं, तथा 'परिमाणम्' इयत्ता वाच्या, तथा किं व समवतरतीत्येतच्च वाच्यं, तथा सारश्च वाच्यः, इत्येभिरैः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः ॥ ६ ॥ अवयवार्थ तु नियुक्तिकृदेवाभिधातुमाह
॥
४
॥