________________
हणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादक, तान्वन्दित्वेति सम्बन्धः सर्वत्र योज्यः, रागद्वेषजितो जिनाः-तीर्थकृतस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनन स्वमनीषिकाव्युदासः |कृतो भवति, 'वन्दित्वे ति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह-'आचारस्य' यथार्थनाम्नः 'भगवत' इति
अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिनियुक्तिस्तां 'कीर्त्तयिष्ये' अभिधास्ये इति अन्तस्तसत्त्वेन निष्पन्नां नियुक्तिं बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ॥१॥ यथाप्रतिज्ञातमेव बिभणिषुनिक्षेपार्हाणि पदानि तावत् सुहद्भूत्वाऽऽचार्यः संपिण्ड्य कथयति
आयार अंग सुयखंध बंभ चरणे तहेव सत्थे य । परिणाए संणाए निक्खेवो तह दिसाणं च ॥२॥ आचारअङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्त्तव्य इति । तत्राचारब्रह्मचरणशस्त्रपरिज्ञा-1 शब्दा नामनिष्पन्ने निक्षेपे द्रष्टव्याः, अङ्गश्रुतस्कन्धशब्दा ओघनिष्पन्ने, संज्ञादिक्शब्दौ सूत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति ॥२॥ एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह
चरणदिसावजाणं निक्खेवो चउक्कओ य नायव्यो। चरणमि छविहो खलु सत्तविहो होइ उ दिसाणं ॥३॥ १ चान्द्रमतेन णिज उभयपदभावात् ।