SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अध्ययन उद्देशकः१ - 1 श्रीआचा-पदा नियुक्त्यनुगमश्चाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा-"उद्देसे णिसे य णिग्गमे खेत्तकालपुरिसे य । कारणपञ्चयल-1 क्खण णए समोयारणाऽणुमए ॥१॥ किं कतिविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं। कइ संतरमविरहियं भवा(शी०) गरिस फासणणिरुत्ती ॥२॥" सूत्रस्पर्शिकनिर्युक्त्यनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, स च सूत्रे सति भवति। सूत्रं च सूत्रानुगमे, स च सूत्रोच्चारणरूपः पदच्छेदरूपश्चेति । अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण नयन्ति -परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगं किश्चिद् बिभणिपुरशेषप्रत्यूहोपशमनाय मङ्गलाथै प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थ सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां नियुक्तिकारो गाथामाह वंदित्तु सव्वसिद्धे जिणे अ अणुओगदायए सव्वे । आयारस्स भगवओ निजुति कित्तइस्सामि ॥१॥ __ तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारतस्येत्यभिधेयवचनं, नियुक्तिं करिष्ये इति प्रयोजनकथनमिति तासर्यार्थः, अवयवार्थस्तु 'वन्दित्वे'ति 'वदि अमि- वादनस्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्च मनःपूर्वकत्वात्करणत्रयेणापि नमस्कार आवेदितो भवति, सितं मातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्र १ उद्देशो निर्देशच निर्गमः क्षेत्र कालः पुरुषश्च । कारणं प्रत्ययः लक्षणं नयाः समवतारः अनुमतम् ॥१॥ कि कतिविध कस्य क केषु कथं कियश्चिरं भवति कालम् । कति सान्तरमविरहितं भवाकर्षाः स्पर्शना निरुक्तिः ॥२॥ SARKARAN S*
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy