SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ KAKK श्रीआचाराजवृत्तिः (शी.) ॥१९७॥ लोक.५ उद्देशका उत्तमसुखं तेन वरिष्ठा-वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति-'साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसंयमतपसि, तस्मिंश्च भावसारे सिद्धयाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति गाथार्थः॥ तस्यैव ज्ञानादेः सिझ्युपायस्य भावसारतां प्रतिपादयन्नाह लोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसुं। सारो हु नाणदंसणतवचरणगुणा हियद्वाए ॥२४२॥ | 'लोके' गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषु च, किम्भूतेषु ?-कामपरिग्रहेण ये कुत्सिता मार्गास्तेषु लग्नेषु, हुहेतौ, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति, वक्ति च-गृहाश्रमसमो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः॥१॥' गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिनः इत्येवं महामोहमोहित इच्छामदनकामेषु प्रवर्तते, तथा तीर्थका अप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिष्वङ्गिणः इत्यतस्तेषु सारो ज्ञानदर्शनतपश्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः ॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याह चइऊणं संकपयं सारपयमिणं दढेण पित्तव्वं । अस्थि जिओ परमपयं जयणा जा रागदोसेहिं ।। २४३ ॥ 'त्यक्त्वा' प्रोज्झ्य, किं तत्-'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवंम्भूतो विकल्पः शङ्का तस्याः पदं-निमित्तकारणं तच्चाहरोकेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येवर्थेषु या संशीतिः-सन्देह इत्येतद्रूपं तच्छ A ॥१९७॥ RAN
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy