________________
SHAHAHAHAHAHAHAHARASHTRA
कापदं विहाय सारपदं-इदं ज्ञानादिकं प्रागुपन्यस्तं दृढेन-अनन्यमनस्केन तीथिकदम्भप्रतारणाक्षोभ्येन ग्राह्यं, तदेव शङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः, अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रह गं, अस्ति-विद्यते जीवितवान् जीवति जीविष्यतीति वा जीवः शुभाशुभफलभोक्तेति, स च प्रत्यक्ष एवाहंप्रत्ययसाध्यः, इच्छाद्वेषप्रयत्नादिकार्यानुमानसाध्यो वा, तथा अजीवा अपि धर्माधर्माकाशपुद्गला गतिस्थित्यवगाहव्यणुकादिस्कन्धहेतवः सन्ति,एवमानवसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणत्यावश्यंभावित्वादाचं जीवपदार्थ साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति-परमं च तत्पदं च परमपदं, तच्चास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवाप्तावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति-'यतना'यतो रागद्वेषेषु, रागद्वेषोपशमाद्यः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं दृढेन ||ग्राह्यमिति गाथार्थः ॥ ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाह
लोगस्स उ को सारो? तस्स य सारस्स को हवइ सारो?।तस्स य सारो सारं जइ जाणसि पुच्छिओ साह२४४ । 'लोकस्य' चतुर्दशरजवात्मकस्य का सारः, तस्यापि सारस्य कोऽपरः सारः, तस्यापि सारसारस्य सारं यदि जानासि ततः पृष्टो मया कथयेति गाथार्थः॥ प्रश्नप्रतिवचनार्थमाह
लोगस्स सार धम्मो धम्मपि य नाणसारियं विति । नाणं संजमसारं संजमसारं च निव्वाणं ॥२४५॥