SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ लधर्माधर्माकाशकालात्मकः षड्विधः भावलोकस्त्वौदयिकादिषड्भावात्मकः सर्वद्रव्यपर्यायात्मको वा । सारोऽपि नामादि चतुर्विधः, तत्र नामस्थापने सुगमत्वादनादृत्य द्रव्यसारप्रतिपादनायाह सव्वस्स थूल गुरुए मज्झे देसप्पहाण सरिराई । धण एरंडे बहरे खइरं च जिणादुरालाई ॥२४॥ अत्र पूर्वार्द्धपश्चार्द्धयोर्यथासङ्ख्यं लगनीयं, सर्वस्वे धनं सारभूतं, तद्यथा-कोटिसारोऽयं पश्चकपर्दकसारो वा, स्थूले एरण्डः सारः, सारशब्दोऽत्र प्रकर्षवाची, स्थूलानां मध्ये एरण्डो भिण्डो वा प्रकर्षभूतः, गुरुत्वे वज्र, मध्ये खदिरः, देशे आम्रवृक्षो वेणुर्वा, प्रधाने यो यत्र प्रधानभावमनुभवति सचित्तोऽचित्तो मिश्रश्चेति, सचित्तो द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु जिनः चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तेषु वैडूर्यो मणिः, मिश्रेषु तीर्थकर एव विभूषितः, शरीरेष्वीदारिक मुक्तिगमनयोग्यत्वाद्विशिष्टरूपापत्तेश्च, आदिग्रहणात् स्वामित्वकरणाधिकरणेषु सारता योज्या, तद्यथा-स्वामित्वे गोरसस्य घृतं सारभूतं, करणत्वे मणिसारेण मुकुटेन शोभते राजा, अधिकरणे दनि घृतं जले पद्ममुत्थितमित्यादि गाथार्थः॥ भावसारप्रतिपादनायाहूal भावे फलसाहणया फलओ सिद्धी सुहुत्तमवरिट्ठा । साहणय नाणदंसणसंजमतवसा तहिं पगयं ॥ २४१॥ __'भावे' भावविषये सारे चिन्त्यमाने फलसाधनता सारः फलम्-अर्थक्रियावाप्तिस्तस्य साधनता फलसाधनता-फलार्थमारम्भे प्रवर्त्तनं ततः फलावाप्तिः प्रधानं, फलतोऽप्यनैकान्तिकानात्यन्तिकरूपात् सांसारिकात्सकाशात्तद्विपर्यस्तं फलं सारः, किं तत् ?-सिद्धिः, किम्भूताऽसौ ?–'उत्तमसुखवरिष्ठा' उत्तमं च तदात्यन्तिकैकान्तिकानाबाधत्वात् सुखं च
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy