________________
तत्-उपशमं-इन्द्रियनोइन्द्रियजयरूपं संयमंवा 'गत्वा' प्रतिपद्यापीडयेदिति वर्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयम प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यतः कौपीडनार्थमुपशमप्रतिपत्तिस्तता|तिपत्तौ चाविमनस्कतेत्याह-तम्हा' इत्यादि, यस्मात्कम्भेक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च
न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकषायादिष्वरती वा मनो यस्य स विमना यो न तथा सोऽविमनाः,I ताकोऽसौ?, वीरः-कर्मविदारणसमर्थः,। अविमनस्कत्वाच्च यत्स्यात्तदाह-'सारएं' इत्यादि, सुष्टा-जीवनमर्यादया संयमानु| ष्ठाने रतः स्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, 'सदा सर्वकालं सकृदारोपितसंयमभारः संस्तत्र 'यतेत' यत्नवान् भवेदिति । किमर्थं पुनः पौनःपुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते | इत्याह-'दुरनुचरो' इत्यादि, दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ ?-मार्गः-संयमानुष्ठानविधिः, केषां ?-'वीराणाम्' || अप्रमत्तयतीनां, किम्भूतानामित्याह-'अणियट्ट' इत्यादि, अनिव-मोक्षस्तत्र गन्तुं शीलं येषां ते तथा तेषामिति, यथा च तन्मार्गानुचरणं कृतं भवति तद्दर्शयति-विगिंच' इत्यादि, 'मांसं' शोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना विवेचय' पृथकुरु, तद्रासं विधेहीतियावत् , एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः। यश्चैवम्भूतः स के गुणमवाप्नुयादित्याह-'एस' इत्यादि, 'एष' मांसशोणितयोरपनेता पुरि शयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, म-d त्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात् , कमरिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च
तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति । किं च 'आयाणिजे' इत्यादि, स वीआ. सू. ३३