________________
श्रीआचाराङ्गवृत्तिः
सम्य०४ उद्देशकः३
(शी०)
॥१९२॥
आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं हिचा उवसमं, तम्हा अविमणे वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियदृगामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिजे वियाहिए, जे धुणाइ
समुस्सयं वसित्ता बंभचेरंसि ( सू० १३७) आङीषदर्थे, ईषत्पीडयेद् अविकृष्टेन तपसा शरीरकमापीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, तत ऊर्द्धमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत्प्रपीडयेत् , पुनरध्यापितान्तेवासिवर्गः सङ्क्रामितार्थसारः शरीरं तित्यक्षु
सार्द्धमासक्षपणादिभिः शरीरं निश्चयेन पीडयेन्निष्पीडयेत्, स्यात्-कर्मक्षयार्थ तपोऽनुष्ठीयते, स च पूजालाभख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इत्यतोऽन्यथा व्याख्यायते-कम्मैव कार्मणशरीरं वा आपीडयेप्रपीडयेनिष्पीडयेत् ,अत्रापीषदर्थादिका प्रकर्षगतिरवसेया,यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिषु गुणस्थानकेषु, ततोऽपूर्वकरणानिवृत्तिबादरयोः प्रपीडयेत् , सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत्, अथवा आपीडनमुपशमश्रेण्यां प्रपीडनं क्षपकश्रेण्यां निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत्कुर्यादित्याह-'जहित्ता' इत्यादि, पूर्वः संयोगः पूर्वसंयोगो-धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्वः-असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा 'आवीलये'दित्यादिसम्बन्धः, किं च-हिच्चा'इत्यादि, 'हि गतावित्यस्मात् पूर्वकाले क्त्वा 'हित्वा' गत्वा, किं|
॥१९२ ॥