SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) सम्य० ४ उद्देशका३ ॥ १९३॥ राणां मार्ग प्रतिपन्नः मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-ग्राह्य आदेयवचनश्च व्याख्यात इति। कश्चैवम्भूत इत्याह -जे धुणाई' इत्यादि, 'ब्रह्मचर्ये' संयमे मदनपरित्यागे वोषित्वा यः 'समुच्छ्रयं' शरीरकं कर्मोपचयं वा तपश्चरणादिना 'धुनाति' कृशीकरोति स आदानीय इति विविधमाख्यातो व्याख्यात इति सम्बन्धः ॥ उक्ता अप्रमत्ताः, तद्विधर्मणस्तु प्रमत्तानभिधित्सुराह नित्तेहिं पलिच्छिन्नेहिं आयाणसोयगढिए बाले, अव्वोच्छिन्नबंधणे अणभिकंतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि तिबेमि ( सू० १३८) नयत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि-चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः-यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानस्रोतोगृद्धः-आदीयते-सावद्यानुष्ठानेन स्वीकियत इत्यादानं-कर्म संसारबीजभूतं तस्य स्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगा वा तेषु गृद्धःअध्युपपन्नः स्यात्, कोऽसौ?–'बालः' अज्ञः रागद्वेषमहामोहाभिभूतान्तःकरणः। यश्चादानस्रोतोगृद्धः स किम्भूतः स्यादि| त्याह-'अब्वोच्छिन्नबंधणे' इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकारं कर्म यस्य स तथा, किं च |-'अणभिकंत' इत्यादि, अनभिकान्तः-अनतिलविन्तः संयोगो धनधान्यहिरण्यपुत्रकलत्रादिकृतोऽसंयमसंयोगो वा येनासावनभिक्रान्तसंयोगः तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वा ॥१९ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy