________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १८८ ॥
काष्ठमुनयस्ते शुष्कगोलकसन्निभा न कचिल्लगन्तीति गाथाद्वयार्थः । सम्यक्त्वाध्ययने द्वितीयोदेशक निर्युक्तिः । इति सम्यक्त्वाध्ययने द्वितीयोदेशकः समाप्तः ॥ ४-२ ॥
तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देश के परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानं तत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादि सूत्रम् —
उवेहिणं बहिया य लोगं, से सव्वलोगंमि जे केइ विष्णू, अणुवीइ पास निक्खित्तदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयच्चा धम्मविउत्ति अंजू, आरंभजं दुक्खमिणंति णच्चा, एवमाहु संमत्तदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिण्णमुदाहरति इय कम्मं परिण्णाय सव्वसो ( सू० १३४ )
योऽयमनन्तरं प्रतिपादितः पाषण्डिलोकः एनं धर्म्माद्बहिर्व्यवस्थितमुपेक्षस्व - तदनुष्ठानं मा अनुमंस्थाः चशब्दोऽनुतसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकं च मा कृथा इति । यः पाषण्डिलोकोपेक्षकः स कं गुणमवाभु
सम्य० ४
उद्देशकः
॥ १८८ ॥