________________
पूर्ववद् एवमनया दिशा सर्वेऽपि तीर्थिका वाच्याः, आर्हतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वाईतक्षुल्लकोऽप्येवम्भूतपरिणाम इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थ प्रविष्टः प्रत्युपस्येव क्षुल्लकः समानीतः, तेनापि गाथापादं गृहीत्वा गाथा बभाषे तद्यथा-
संतस्स दंतस्स जिंइंदियस्स, अज्झप्पजोगे गयमाणसस्स ।
किं मज्झ एएण विचितएणं?, सकुंडलं वा वयणं न वत्ति ॥ २३१ ॥
सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तं न पुनर्व्याक्षेप इत्यतो गाथासंवादात् क्षान्तिदमजितेन्द्रियत्वाध्यात्मयोगाधिगतेश्च कारणाद्राज्ञो धर्मं प्रति भावोलासोऽभूत्, क्षुल्लकेन च धर्म्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्के तर कर्द्दमगोलकद्वयं भित्तौ निक्षिप्य गमनमारेभे पुनर्गच्छन् राज्ञोक्तं किमिति भवान् धर्म्म पृष्टोऽपि न कथयति ?, स चावोचत् - हे मुग्ध ! ननु कथित एव धर्मो भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाह -
उल्लो सुको य दो छूढा, गोलया महियामया । दोवि आवडिया कुड्डे, जो उल्लो तत्थ (सोऽत्थ) लग्गइ ॥ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा से सुक्कगोलए ॥ २३३ ॥
अयमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृभुतया सार्द्राः सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः