________________
सम्य०४
उद्देशकः२
श्रीआचाराङ्गवृत्ति
(शी०) ॥१८७॥
किमेभिः पक्षपातवचोभिः?, विमर्शामः स्वत एव धर्मे परीक्षामहे तीर्थकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा| वदनं न वत्ति, अयं गाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगर्या चोपुष्टं, यथा-य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति, तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः, पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिबाड् ब्रवीति
भिक्खं पविटेण मएउज दिलु, पमयामुहं कमलविसालनेत्तं ।
वक्खित्तचित्तेण न सुट्ठ नायं, सकुंडलं वा वयणं न वत्ति ॥ २२८ ॥ सुगम, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्वाटितः।। पुनस्तापसः पठति
फलोदएणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा।
वक्खित्तचिसेण न मुह नायं, सकुंडलं वा वयणं न वत्ति ॥ २२९ ।। सुगम पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह
मालाविहारंमि मएज्ज दिट्ठा, उवासिया कंचणभूसियंगी। वक्खित्तचित्तेण न सुड नायं, सकुंडलं वा वयणं न वत्ति ॥ २३०॥
॥१८७॥