________________
यादित्याह-'से सव्वलोए' इत्यादि, यः पापण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वमिंल्लोके-मनुष्यलोके ये | केचिद्विद्वांसस्तेभ्योऽग्रणीविद्वत्तम इति स्यात्, लोके केचन विद्वांसः सन्ति? येभ्योऽधिकः स्यादित्यत आह-'अणुवीई' इत्यादि, ये केचन लोके 'निक्षिप्तदण्डा' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङ्मयः प्राण्युपपातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य-पर्यालोच्य पश्य-अवगच्छ । के चोपरतदण्डा इत्यत आह–'जे केई' इत्यादि, ये केचनावगतधर्माणः सत्त्वाः-प्राणिनः 'पलित'मिति कम्में तत्त्यजन्ति, ये चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म नन्ति ते | विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पयोलोच्य ‘पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आह-नरें' इत्यादि, नरा:-मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा-मृतेव मृता संस्काराभावाद; शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्चा-तेजः, स च क्रोधः स च कषायोपलक्षणार्थः, ततश्चायमों-मृता-विनष्टा अर्चा कषायरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किं च 'धर्म' श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतो, यत एव धर्मविदोऽत एव ऋजवः-कौटिल्यरहिताः । स्यादेतत्-किमालम्ब्यैतद्विधेयमित्यत आह-'आरंभज' मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माज्जातमारम्भर्ज, किं तद्-दुःखमिदमिति सकलप्राणिप्रत्यक्षं, तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानसं दुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमोक्तम्, 'इतिः' उपप्रदर्शने, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजवश्च भव|न्तीति । एतच्च समस्तवेदिनो भाषन्त इति दर्शयति–'एव'मित्यादि, 'एवं' पूर्वोक्तप्रकारेण 'आहुः' उक्तवन्तः, के एव.