SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ पर्ययेणार व कम्मोदयावष्टवकारणानि जायचोप्रकारा यावन्त मनकास्तिकता दर्शयितुमेतदेव विपर्ययेणाह-'जे परिस्सवा' इत्यादि, य एव परिश्रवाः-निर्जरास्थानानि-अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि, तान्येव कर्मोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातर्द्धिरसगारवप्रवणस्यानवा भवन्ति-पापोपादानकारणानि जायन्ते, इदमुक्तं भवति-यावन्ति कर्मनिर्जराथै संयमस्थानानि तद्वन्धनायासंयमस्थानान्यपि तावन्त्येव, उकं च-"यथाप्रकारा यावन्तः, संसारावेशहेतवः। तावन्तस्तद्विपर्यासान्निर्वाणसुखहेतवः॥१॥" तथाहि-रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्व संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वापत्तिवदिति, सम्यग्दृष्टस्तु विदितसंसारोदन्वतः न्यकृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सञ्जातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः । पुनरेतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह-'जे अणासवा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसाPानतया परिस्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम्, आम्रवेभ्योऽन्येऽनानवाः-व्रतविशेषाः, तेऽपि कर्मोदयादशुभाध्यवसायिनोऽपरिस्रवाः कर्मणः, कोणार्यप्रभृतीनामिवेति, तथाऽपरिस्रवाः-पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानाम्रवाः-कर्मबन्धनानि न भवन्ति, यदिवा आम्रवन्तीत्यानवाः, पचाद्यच्, एवं परिस्रवन्तीति परिस्रवाः, अत्र चतुर्भङ्गिका-तत्र मिथ्यात्वाविरतिप्रमादकषाययोगैर्य एव कर्मणामानवाः-बन्धकाः त एवापरेषां परिस्रवाः-निर्जरकाः, एते च प्रथमभङ्गपतिताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषां प्रतिक्षणमुभयसद्भावात् , तथा ये आस्रवास्तेऽपरिस्रवा इति शून्योऽयं द्वितीयभङ्गको, बन्धस्य शाटावि
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy