________________
श्रीआचा- नाभावित्वाद्, एवं येऽनास्रवास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, ते- सम्य०४ राङ्गवृत्तिः षामनास्रवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तभङ्गको सूत्रोपात्तौ, तदुपादाने च मध्योपादानस्यावश्यंभावित्वात् मध्यभकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किमित्याह-एए पए' इत्यादि, एतानि-अनन्तरोक्कानि पद्यते-गम्यते येभ्योऽ
उद्देशकार (शी०)
र्थस्तानि पदानि, तद्यथा-ये आस्रवा इत्यादीनि, परस्य चार्थावगत्यर्थ शब्दप्रयोगादेतसदवाच्यानर्थांश्च सम्यग्-अविपर्या-18 ॥१८२॥
है सेन बुध्यमानस्तथा 'लोकं' जन्तुगणमानवद्वारायातेन कर्मणा वध्यमानं तपश्चरणादिना च मुच्यमानमाज्ञया-तीर्थकर
प्रणीतागमानुसारेणाभिसमेत्य-आभिमुख्येन सम्यक् परिच्छिद्य चशब्दो भिन्नक्रमः पृथक् प्रवेदितं चाभिसमेत्य पृथगासवोपादानं निर्जरोपादानं चेत्येतच्च ज्ञात्वा को नाम धर्मचरणं प्रति नोद्यच्छेदिति?, कथं प्रवेदितमिति चेत्, तदुच्यते, आस्रवस्तावज्ज्ञानप्रत्यनीकतया ज्ञाननिहवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनप्रत्यनीकतया यावद्दर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते, तथा प्राणिनामनुकम्पन- तया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनत्वेन बहूनां प्राणिनामदुःखोसादनतया अशोचनतया अजूरणतया अपीडनतया अपरितापनतया सातावेदनीयं कर्म बध्यते, एतद्विपर्ययाच्चासातावेदनीयमिति, तथाऽनन्तानुबन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयं कर्म बध्यते, महारम्भतया महापरिग्रहतया पञ्चेन्द्रियवधात् कुणिमाहारेण नरकायुष्कं बध्यते, मायावितया अनृतवादेन कूटतुलाकूटमानव्यवहारात्तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मनुष्यायुष्कं, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायु
॥१८२॥