________________
ब
श्रीआचाराङ्गवृत्तिः (शी०) ॥१८१॥
उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः-इह अनन्तरोदेशके सम्यग्वादः सम्य०४ प्रतिपादितः, स च प्रत्यनीकमिथ्यावादव्युदासेनात्मलाभ लभते, व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचार
उद्देशका मृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायेदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्र-जे आसवा' इत्यादि, यदिवेह सम्यक्त्वमधिकृतं, तच्च सप्तपदार्थश्रद्धानात्मक, तत्र मुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेन । संसारमोक्षकारणे निर्णेतव्ये, तत्र संसारकारणमानवस्तग्रहणाच्च बन्धग्रहणं, मोक्षकारणं तु निर्जरा तद्हणाञ्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह
जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिच्चा पुढो
पवेइयं (सू० १३०) 'य' इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म थैरारम्भस्ते आस्रवाः, परिः-समन्तात्स्रवति-गलति यैरनुष्ठान-15 व विशेषैस्ते परिस्रवाः, य एवास्रवाः-कर्मबन्धस्थानानि त एव परिस्रवाः-कर्मनिर्जरासदानि, इदमुक्तं भवति यानि इतरजनाचरितानि सगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादानवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराशुखानां निःसारतया संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिस्रवाः-निर्जरास्थानानि । सर्ववस्तूना
।॥१८१॥