________________
आ. सू. ३१
|र्वज्ञैः केवलज्ञानावलोकेन दृष्टं ततः शुश्रूषुभिः श्रुतं लघुकर्म्मणी भव्यानां मतं, ज्ञानावरणीयक्षयोपशमाद्विशेषेण ज्ञातं विज्ञातम्, अतो भवताऽपि सम्यक्त्वादिके मत्कथिते यलवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथ|म्भूता भवेयुरित्याह- 'समेमाणा' इत्यादि, तस्मिन्नेव मनुष्यादिजन्मनि 'शाम्यन्तो' गार्थ्येनात्यर्थमासेवां कुर्वन्तः तथा | 'प्रलीयमानाः' मनोज्ञेन्द्रियार्थेषु पौनःपुन्येनै केन्द्रियद्वीन्द्रियादिकां जातिं प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः ॥ यद्येवमविदितवेद्याः साम्प्रतेक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसन्धाना जन्त| वस्ततः किं कर्त्तव्यमित्याह -
अहो अ राओ य जयमाणे धीरे सया आगयपण्णाणे पमते बहियां पास अप्पमत्ते
सया परिक्कमिज्जासि तिबेमि ( सू० १२९ ) ॥ सम्यक्त्वाध्ययने प्रथमोद्देशकः ४-१ ॥
अहश्च रात्रिं च यतमान एव यलवानेव मोक्षाध्वनि 'धीरः' परीषहोपसर्गाक्षोभ्यः 'सदा' सर्वकालम् 'आगतं' स्वीकृतं 'प्रज्ञानं' सदसद्विवेको यस्य स तथा, 'प्रमत्तान्' असंयतान् परतीर्थिकान्वा धर्माद्बहिर्व्यवस्थितान् पश्य, तांश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याह - 'अप्पमत्ते' इत्यादि, अप्रमत्तः सन्निद्राविकधादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि | सदोपयुक्तः पराक्रमेथाः कर्म्मरिपून मोक्षाध्वनि वा । इतिरधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । इति सम्यक्त्वाध्ययने प्रथमोद्देशकटीका परिसमाप्ता ।