________________
श्रीआचा'राङ्गवृत्तिः
(शी.) ॥१८ ॥
सम्य०४ उद्देशकः१
SAUNAASIUSOSH
दिनिमित्तोत्थापितमिथ्यात्वोऽपि जीवसामर्थ्यगुणान्न त्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योत्प्रव्रजनं, एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं 'न निक्षिपेत्' न त्यजेत्, किं कृत्वा?-यथा तथाऽवस्थितं धर्म ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तूनां वा धर्म-स्वभावमवबुध्येति । तदवगमे तु किं चापरं कुर्यादित्याह-'दिठेहिं' इत्यादि, दृष्टैरिष्टानिष्टरूपैनिदै गच्छेद्, विरागं कुर्यादित्यर्थः, तथाहिशब्दैः श्रुतैः रसैरास्वादितैर्गन्धेराघातैः सह्रः स्पृष्टैः सद्भिरेवं भावयेत्-यथा शुभेतरतापरिणामवशाद्भवतीत्यतः कस्तेषु रागो द्वेषो वेति । किं च-'नो लोयस्स' इत्यादि, 'लोकस्य प्राणिगणस्यैषणा-अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्तां 'न चरेत्' न विदध्यात् ॥ यस्य चैषा लोकैपणा नास्ति तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति
जस्स नत्थि इमा जाई अण्णा तस्स कओ सिया ?, दिटुं सुयं मयं विण्णायं जं एवं
परिकहिजइ, समेमाणा पलेमाणा पुणो पुणो जाइं पकप्पंति (सू० १२८) यस्य मुमुक्षोरेषा ज्ञाति:-लोकैषणाबुद्धिः 'नास्ति' न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् !, इदमुकं द भवति-भोगेच्छारूपां लोकैषणां परिजिही व सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा 'इमा
अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या विवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठानपरिहारद्वारेण कुतः स्यात् ।। शिष्यमतिस्थैर्यार्थमाह-'दिह'मित्यादि, यदेतन्मया परिकथ्यते तत्स
॥