SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ दावन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोसत्त्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोसापपातिकपर्यन्तमधितिष्ठन्ति, पुनरपि ततश्युतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण-संयमेनोद्दिष्टविधिना 'परं' स्वर्ग पारम्पर्येणापवर्गमपि यान्ति, यदिवा 'परेण' सम्यग्दृष्टिगुणस्थानेन 'पर' देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति, परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः 'परं' दर्शनमोहनीयचारित्रमोहनीयक्षयं घातिभवोपग्राहिकर्मणां वा क्षयमवाप्नुवन्ति, एवंविधाश्च कर्मक्षपणोद्यता जीवितं कियद्गतं किंवा शेषमित्येवं नावकाङ्कन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङ्क्षन्तीति, यदिवा परेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्यामवाप्नुवन्तीति, उक्तं च-"जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं कस्स तेयलेस्सं वीईवयंति, गोयमा!, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयइ, एवं दुमासपरियाए असुरिंदवजियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं चउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, १य इमे अद्यतया श्रमणा निर्ग्रन्या विहरन्ति, एते कस्य तेजोलेश्या व्यतिव्रजन्ति !, गौतम! मासपर्यायः श्रमणो निर्घन्धो व्यन्तराणां देवानां तेजोलेश्या व्यतिव्रजति, एवं द्विमासपर्यायः असुरेन्द्रवर्जितानां भवनवासिनां देवाना, त्रिमासपर्यायोऽसुरकुमाराणां देवानां चतुर्मासपर्यायः ग्रहगणनक्षत्रतारारूपाणां ज्योतिष्कानां |देवानां, पश्चमासपर्यायः चन्द्रसूर्ययोज्योतिष्केन्द्रयोर्योतीराजयोस्तेजोलेश्या, षण्मासपर्यायः सौधर्मेशानानां देवानां, सप्तमासपर्यायः सनत्कुमारमाहेन्द्राणां देवानां, अष्टमासपर्यायो ब्रह्मलोकलान्तकानां देवानां, नवमासपर्यायो महाशुक्रसहस्राराणां देवाना, दशमासपर्याय आनतप्राणतारणाच्युतानां देवानां, एकादशमासपर्यायो प्रैवेयकाणां, द्वादशमासः श्रमणो निर्ग्रन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्या व्यतिब्रजति, ततः परं शुक्लः शुक्लाभिजाति (ल्यो भू० )त्वा ततः पश्चारिसध्यति.
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy