________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १७३ ॥
सत्तमासपरिआए सणकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महासुक्कसहस्साराणं देवाणं, दसमासपरियार आणयपाणयआरणच्चुआणं देवाणं, एगारसमासपरियाए गेवेज्जाणं, बारसमासे समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेसं वीयवयइ, तेण परं सुके सुक्काभिजाई भवित्ता तओ पच्छा सिज्झइ ।” यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्त्तते उत नेत्याह
एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि एगं, सड्डी आणाए मेहावी लोगं च आणाए अभिसमिच्चा अकुओभयं, अत्थि सत्थं परेण परं, नत्थि असत्थं परेण परं ( सू० १२४) 'एकम् ' अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् 'पृथग्' अन्यदपि दर्शनादिकं क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्य मनन्तानुबन्धिनामेकं क्षपयति पृथग्-अन्यद् क्षयान्यथानुपपत्तेः, किंगुणः क्षपकश्रेणियोग्यो भवतीत्याह - 'सही' इत्यादि, श्रद्धा-मोक्षमार्गोद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् ' आज्ञया' तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी 'मेधावी' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यर्हो नापर इति । किं च- 'लोगं च' इत्यादि, चः समुच्चये 'लोकं' पड़ीवनिकायात्मकं कषायलोकं वा 'आज्ञया' मौनीन्द्रागमोपदेशेन 'अभिस|मेत्य' ज्ञात्वा षड्जीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताद्भयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहर्तुर्न कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञयां- आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामु
शीतो० ३ उद्देशकः ४
॥ १७३ ॥