________________
एस मरणा पमुच्चइ, से हु दिटुभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते
समिए सहिए सया जए कालकंखी परिवए, बहुं च खलु पावं कम्मं पगडं (सू० १११) _ 'एष' इत्यनन्तरोक्तो मूलाग्ररेविवेचक निष्कर्मदशी मरणाद्-आयुःक्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद्, य| दिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह-'से
हु' इत्यादि, 'सः' अनन्तरोक्तो मुनिर्दष्टं संसाराद्यं सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव । किं च-४ |'लोयंसि' इत्यादि, लोके द्रव्याधारे चतुर्दशभूतग्रामात्मके वा परमो-मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति परमदशी, तथा 'विविक्तं' स्त्रीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेषरहितमसक्लिष्टं जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो-गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः-समन्वितो, यश्च ज्ञानादिसहितः स सदा यतःअप्रमादी । किमवधिश्चायमनन्तरोक्तो गुणोपन्यास इत्याह-'काल' इत्यादि, कालो-मृत्युकालस्तमाकाशितुं शीलमस्येति कालाकाली स एवम्भूतः परिः-समन्तात्बजेपरिव्रजेत् , यावपर्यायागतं पण्डितमरणं तावदाकासमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति । स्यादेतत्-किमर्थं एवं क्रियते? इत्याह-मूलोत्तरप्रकृतिभेदभिन्नं प्रकृतिस्थित्यनुभावप्रदेशबन्धात्मक बन्धोदयसत्कर्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनिकाचितावस्था