________________
श्रीआचारावृत्तिः (शी०)
॥१६१॥
गतं कर्म तच्च न इसीयसा कालेन क्षयमुपयातीत्यतः कालाकानीत्युक्तं, तत्र बन्धस्थानापेक्षया तावन्मूलोत्तर- शीतो०३ प्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथा-सर्वमूलप्रकृतीबंधतोऽन्तमुहूर्त यावदष्टविधं, आयुष्कवर्ज सप्तविधं, तजघन्ये
उद्देशका २ नान्तर्मुहूर्तमुत्कृष्टतस्तद्रहितानि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, सूक्ष्मसंपरायस्य मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्विधम् , एतच्च जघन्यतः सामयिकमुत्कृष्टतस्त्वन्तर्मुहूर्त्तमिति, तथोपशान्तक्षीणमोहसयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बनतामेकविधं बन्धस्थानं, तच्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोटिकालीयं । इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्ते-तत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वादन्धस्थानं, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वान्नवविधं १, ततः| स्त्यानिित्रकस्यानन्तानुबन्धिभिः सह बन्धोपरमे पड्डिधं २, अपूर्वकरणसङ्ख्येयभागे निद्राप्रचलयोर्बन्धोपरमे चतु-1 विधं बन्धस्थानं ३ । वेदनीयस्यैकमेव बन्धस्थान-सातमसातं वा बनतः, उभयोरपि यौगपद्येन विरोधितया बन्धाभा
वात् । मोहनीयबन्धस्थानानि दश, तद्यथा-द्वाविंशतिः-मिथ्यात्वं १ षोडश कषाया १७ अन्यतरवेदो १८ हास्यरतियुग्माभारतिशोकयुग्मयोरन्यतर २० इयं २१ जुगुप्सा २२ चेति १, मिथ्यात्वबन्धोपरमे सास्वादनस्य सैवैकविंशतिः २, सैव
सम्यमिथ्यादृष्टेरविरतसम्यग्दृष्टेर्वा अनन्तानुबन्ध्यभावे सप्तदशविधं वन्धस्थानं ३, तदेव देशविरतस्याप्रत्याख्यानब-18 न्धाभावे त्रयोदशविधं ४, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावान्नवविधं ५, एतदेवं हा
॥१६१॥ स्थादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमात्पञ्चविधं ६, ततोऽनिवृत्तिकरणसङ्ख्येयभागावसाने पुंवे-12