________________
KOROSAGASANSARORA
वदति च महामोहावृतोऽशुभाध्यवसायो यथा एते पशवो मृगयाथै सृष्टाः, मृगया च सुखिना क्रीडायै भवति, इत्येवं मृषावादादत्तादानादिष्वप्यायोज्यं । यदि नामैवं ततः किमित्याह-'अल'मित्यादि, अलं-पर्याप्तं बालस्य-अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालं, बालस्य हास्यादिसङ्गेनालं, किमिति चेद् ?, उच्यते, 'वेर'मित्यादि, पुरुषादिवधसमुत्थं वैरं तद्वालः सङ्गानुपङ्गी सन्नात्मनो वर्द्धयति, तद्यथा-गुणसेनेन हास्यानुषङ्गादग्निशाणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितं, एवमन्यत्रापि विषयसङ्गादावायोज्यं ॥ यतश्चैवमतः किमित्याह
तम्हातिविजो परमंति णच्चा, आयंकदंसी न करेइ पावं । अग्गं च मूलं च विगिंच
धीरे, पलिच्छिदिया णं निकम्मदंसी ॥ ४॥ यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परम-मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्सरमिति ज्ञात्वा किं करोतीत्याह-आयके'त्यादि, आतङ्को-नरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदर्शी स 'पाप' पापानुबन्धि कर्म न करोति, उपलक्षणार्थत्वान्न कारयति नानुमन्यते । पुनरप्युपदेशदानायाह-'अग्गं च'इत्यादि, अग्रंभवोपग्राहिकर्मचतुष्टयं मूलं-घातिकर्मचतुष्टयं, यदिवा मोहनीयं मूलं शेषाणि त्वग्रं, यदिवा मिथ्यात्वं मूलं शेषं त्वग्रं, तदेवं सर्वमग्रं मूलं च 'विगिंच' इति त्यजापनय पृथक, तदनेनेदमुक्तं भवति-ज कर्मणः पौद्गलिकस्यात्यन्तिक: क्षयः, अपि त्वात्मनः पृथक्करणं, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम्? इति चेत्, तद्वशाच्छेषप्रकृतिवन्धो यतः,
SASARASHAKAA%%%A5+