________________
श्रीआचाराजवृत्तिः (शी०)
शीतो०३ उद्देशक:२
॥१५९॥
ALSSSSSSSORG
'परमं' मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदर्शी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति । पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह
उम्मुंच पास इह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी । कामेसु गिद्धा निचयं क
रंति, संसिञ्चमाणा पुरिति गम्भं ॥२॥ 'इह' मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारे मत्त्यैः सार्द्ध द्रव्यभावभेदभिन्नं पाशमुत्-प्राबल्येन 'मुश्च' अपाकुरु, स हि कामभोगलालसस्तदादानहेतोहिंसादीनि पापान्यारभते अतोऽपदिश्यते-'आरंभ' इत्यादि, आरम्भेण जीवितुं शीलमस्येत्यारम्भजीवी-महारम्भपरिग्रहपरिकल्पितजीवनोपायः उभयं-शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किं च-कामेसु' इत्यादि, कामा-इच्छामदनरूपास्तेषु गृद्धाः-अध्युपपन्ना निचयं-क्रम्र्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह-'संसिच्च' इत्यादि, तेन कामोपादानजनितेन कर्मणा 'संसिच्यमानाः' आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचकवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति । तदेवमनिभृतात्मा किंभूतो भवतीत्याह
अवि से हासमासज, हंता नंदीति मन्नई। अलं बालस्स संगेण, वेरं वड्डेइ अप्पणो॥३॥ हीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य 'स' कामगृहत्वाऽपि प्राणिनो 'नन्दी'ति क्रीडेति मन्यते,
यदि नामैवं ततकामेसु' इत्यादि काल्पतजीवनोपायः SS
॥१५९॥