SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ जातिः-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च 'पश्य' अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्सद्यते तद्विवेकचक्षुषा पश्य, उक्तं च-"जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरह जाइमप्पणो ॥१॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ । माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो ॥२॥" तथा-'हीणभिण्णसरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दसं ॥३॥' इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य! जाति वृद्धिं च तत्कारणं कर्म कार्य च दुःखं पश्य, दृष्ट्वाऽवबुद्ध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व । किं चापरं-'भूएहि'मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सात-सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोसादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च-“यथेष्टविषयाः सातमनिष्टा इतरत्तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ॥ १ ॥" यद्येवं ततः किमित्याह-'तम्हा' इत्यादि, 'तस्माद् जातिवृद्धिसुखदुःखदर्शनादतीव विद्या-तत्त्वपरिच्छेत्री यस्यासावतिविद्यः स जायमानस्य यहःखं प्रियमाणस्य जन्तोः । तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः ॥१॥ विरसरसितं रसन् ततः स योनिमुखात् निस्सरति । मातरात्मनोऽपि च वेदनामतुला जनयन् ॥ ३॥ हीनभित्रखरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितो वसति संप्राप्तः चरमां दशाम् ॥३॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy