________________
जातिः-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च 'पश्य' अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्सद्यते तद्विवेकचक्षुषा पश्य, उक्तं च-"जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरह जाइमप्पणो ॥१॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ । माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो ॥२॥" तथा-'हीणभिण्णसरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दसं ॥३॥' इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य! जाति वृद्धिं च तत्कारणं कर्म कार्य च दुःखं पश्य, दृष्ट्वाऽवबुद्ध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व । किं चापरं-'भूएहि'मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सात-सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोसादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च-“यथेष्टविषयाः सातमनिष्टा इतरत्तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ॥ १ ॥" यद्येवं ततः किमित्याह-'तम्हा' इत्यादि, 'तस्माद् जातिवृद्धिसुखदुःखदर्शनादतीव विद्या-तत्त्वपरिच्छेत्री यस्यासावतिविद्यः स
जायमानस्य यहःखं प्रियमाणस्य जन्तोः । तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः ॥१॥ विरसरसितं रसन् ततः स योनिमुखात् निस्सरति । मातरात्मनोऽपि च वेदनामतुला जनयन् ॥ ३॥ हीनभित्रखरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितो वसति संप्राप्तः चरमां दशाम् ॥३॥