________________
श्रीआचाराङ्गवृत्तिः (शी० )
॥ १५८ ॥
हिंसायां' क्षणनं हिंसनं यत्किमपि प्राण्युपघातकारि तत् कर्म्ममूलतया प्रत्युपेक्ष्य परित्यजेत्, पाठान्तरं वा 'कम्ममाहूय जं छणं' य उपादानक्षणोऽस्य कर्म्मणः तत्क्षणं कर्म्माहूय - कम्र्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद् इदमुक्तं भवति-अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्म्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोर्निवृत्तिं विदध्यादिति, पुनरप्युपदेशदानायाह - 'पडिलेहिअ' इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्व 'समादाय' गृहीत्वा अन्तहेतुत्वादन्तौ - रागद्वेषौ ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा तत्कर्म्म तदुपादानं वा रागादिकं ज्ञपरि| ज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, रागादिमोहितं लोकं विषयकपायलोकं वा ज्ञात्वा वान्त्वा च 'लोकसंज्ञां' विषयपिपासासंज्ञितां धनाधाग्रहग्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत' संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासारिषडुर्गे वाऽष्टप्रकारं वा कर्मावष्टभ्याद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् । इति शीतोष्णीयाध्ययनप्रथमोद्देशकटीका समाप्ता ॥
२४
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोदेश के भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् -
जाई च बुद्धिं च इहऽज्ज! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविज्जे परमंति णच्चा, संमत्तदंसी न करेइ पावं ॥ १ ॥
शीतो० ३
उद्देशकः २
॥ १५८ ॥