________________
स बाह्याभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमांसंयम रत्यरति सहः सन् परुषतां - कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात् कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो 'न वेत्ति' न संयमतपसी पीडाकारित्वेन गृह्णातीतियावत् । किं च - 'जागर' इत्यादि, असंयमनिद्रापगमाज्जागतति जागरः, अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरं तस्मादुपरतो वैरोपरतो, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्म्मधारयः, क एवम्भूतो ? - 'वीरः' कर्म्मापन - यनशक्त्युपेतः, एवम्भूतश्च त्वं वीर ! आत्मानं परं वा दुःखाद्दुःखकारणाद्वा कर्म्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्त्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह - जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नरः' प्राणी 'सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धम्म - स्वर्गापवर्गमार्गे नाभिजानीते - नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न, तत्राप्युपान्त्यकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तं च- "देवा णं भंते! सव्वे समवण्णा ?, नो इणट्ठे समठ्ठे से केणद्वेणं भंते! एवं
१ देवा भदन्त ! सर्वे समवर्णाः ?, नैषोऽर्थः समर्थः, तत् केनार्थेन भदन्त । एवमुच्यते ?, गौतम! देवा द्विविधाः -पूर्वोत्पन्नकाश्च पचादुपपन्नकाच । तत्र ये ते पूर्वोत्पन्न कास्तेऽविशुद्धवर्णाः, ये पश्चादुत्पन्नास्ते विशुद्धवर्णाः.