________________
श्रीआचाराजवृत्तिः (शी०)
शीतो. ३ उद्देशका १
॥१५४॥
CLASARAN
दीनि तैलोकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति-परिच्छिनत्तीत्युक्तं भवति, य एव शब्दादिविषयसङ्गस्य परिहर्ता स एव यथावस्थितलोकस्वरूपपरिच्छेदीति । यश्चानन्तरगुणोपेतः स किं वाच्य इत्यत आह-'मुणी' त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते मन्यते वा जगतस्त्रिकालावस्थां मुनिरितिकृत्वा, किं च-'धम्म' इत्यादि, धर्मे-चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूपं वा वेत्तीति धर्मवित्, 'ऋजु रिति ऋजो-ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदादा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् । तदेवं धर्मविदृजुर्मुनिः किम्भूतो भवतीत्याह-आवट्ट' इत्यादि, |भावावत्तों-जन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि-"रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्ते जगत्क्षिप्त, प्रमादादाम्यते भृशम् ॥ १॥" भावश्रोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आव
तश्च श्रोतश्चावर्तश्रोतसी तयो रागद्वेषाभ्यां सम्बन्धः-सङ्गस्तमभिजानाति-आभिमुख्येन परिच्छिनत्ति-यथाऽयं सङ्गः। | आवर्त्तश्रोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते?, योऽनर्थ ज्ञात्वा परिहरति, ततश्चायमर्थः-संसारश्रोतः-11 सङ्गं रागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव आवर्तस्रोतसोः सङ्गस्याभिज्ञाता ॥ सुप्तजाग्रतां दोषगुणपरिच्छेदी के गुणमवामुयादित्याह
सीउसिणच्चाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ. जागर वेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामचुवसोवणिए नरे सययं मूढे धम्मं नाभिजाणइ (सू० १०८)
॥१५४॥