________________
तृतीयमारभ्यते, अस्य चायनदधुना प्रतिपाद्यते, अध्ययमः कदाचिदनुलोमप्रति
अथ तृतीयमध्ययनं शीतोष्णीयं । II उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि,
यथा शीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनं कर्त्तव्यं, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शत्रपरिज्ञोक्तमहाव्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परीषहाः प्रादुष्षन्ति, तेऽविकृतान्तःकरणेन सम्यक् सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य |चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेाधिकारी द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्दे|| शार्थाधिकारप्रतिपादनार्थ तु नियुक्तिकार आहपढमे सुत्ता अस्संजयत्ति १ विइए दुहं अणुहवंति २।तइए न हु दुक्खेणं अकरणयाए व समणुत्ति ३॥१९८॥ उद्देसंमि चउत्थे अहिगारो उ वमणं कसायाणं । पावविरईओ विउणो उ संजमो इत्थ मुक्खुत्ति ४॥ १९९॥ । प्रथमोद्देशकेऽयमर्थाधिकारो, यथा-भावनिद्रया सुप्ताः-सम्यविवेकरहिताः, के?-असंयताः-गृहस्थास्तेषां च भावसुतानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा-'जरामच्चुवसोवणीए नरे' इत्यादि १, द्वितीये तु त एवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा-'कामेसु गिद्धा निचयं करंति' २, तृतीये तु 'न हुँ' नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च-सहिए दुक्खमायाय