SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥१४९॥ शीतो०३ उद्देशका १ | तेणेव य पुढो नो झंझाए' ३, चतुर्थोद्देशके त्वयमधिकारो, यथा-कषायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः, 'विदुषो' विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः॥ नामनिष्पने तु निक्षेपे शीतोष्णीयमध्ययनमतः शीतोष्णयोनिक्षेपं निर्दिदिक्षुराह नाम ठवणा सीयं दब्वे भावे य होइ नायव्वं । एमेव य उण्हस्सवि चउब्विहो होइ निक्खेवो ॥ २०॥ सुगमा । तत्र नामस्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितुमाहदव्वे सीयलदब्वं दब्बुहं चेव उण्हदव्वं तु । भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥ २०१॥ ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्रव्यं द्रव्यप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीतं-हिमतुषारकरकादि, एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा-पुद्गलाश्रितं जीवाश्रितं च, गाथाशकलेनाचष्टे-तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्राधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा-औदथिकादयः पड़ भावाः, तत्रौदयिकः कर्मोदयाविर्भूतनारकादिभवकषायोसत्तिलक्षणः उष्णः, औपशमिकः कर्मोपशमावाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद, अथवाऽशेषकर्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति ॥ अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारः प्रचिकटयिषुराहसीयं परीसहपमायुवसमविरई सुहं चउण्हं तु । परीसहतवुजमकसाय सोगाहिवेयारई दुक्ख ॥ २०२॥ दारं । CLASSACREAACCASHLESALAM ॥१४९॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy