SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १४८ ॥ विधस्य यथोक्तगुणावस्थितस्य धर्म्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कम्र्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्यथव्यवस्थितस्य कुमार्गनिराचिकीर्षोहिंसाद्यष्टादशपापस्थानविरतस्यावगत लोकसंज्ञस्य यद्भवति तद्दर्शयति— उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवहं अणुपरियहइ ( सू० १०४ ) ति बेमि ॥ लोकविजयाध्ययनम् २ ॥ उद्दिश्यते नारकादिव्यपदेशेनेत्युद्देशः स 'पश्यकस्य' परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाि यावत्तृतीयोद्देशके व्याख्यातानि तत एवार्थोऽयगन्तव्यः, आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुनर्निहः कामसमनुज्ञः अशमितदुःखः दुःखी दुःखानामेवावर्त्तमनुपरिवर्त्तते । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ ( ग्रन्थाग्रम् २५०० ) ॥ उक्तः षष्ठोद्देशकः ॥ तत्परिसमाप्तौ चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्न निक्षेपश्च ससूत्र स्पर्शनियुक्तिकः । साम्प्रतं नैगमादयो नयाः, ते चान्यत्र न्यक्षेणं प्रतिपादिता इति नेह प्रतन्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गत| त्वात्तेषां तावेव प्रतिपाद्येते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येकं मिथ्यादृष्टित्वम्, अतः पवन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरंवगन्तव्येति उपगम्यते ॥ इति लोकविजयाध्ययनस्य टीका समाप्ता ॥ २ ॥ श्रीआचाराङ्गे इतिश्रीशीलाङ्काचार्यवृत्तियुतं लोकविजयाध्ययनं द्वितीयम् लोक.वि. २ उद्देशकः ६ ॥ १४८ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy