SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ SAKSERRORAGAR यवानिव न बद्धोऽद्यापि तत्सत्कर्मतासद्भावान्नो मुक्त इति । एवम्भूतश्च कुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणापि मुगुक्षुणा विधेयमिति दर्शयति से जं च आरभे जं च नारभे, अणारद्धं च न आरझे, छणं छणं परिण्णाय लोगसन्नं च सव्वसो (सू० १०३) I 'स' कुशलो यदारभते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते 'मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धव्यमारम्भणीयमनारब्धमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकार्यत्वात् , तन्निषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह'अणारद्धं च' इत्यादि, अनारब्धम्-अनाचीर्ण केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षुर्नारभते-न कुर्यादित्युपदेशो, यच्च मोक्षाङ्गमाचीर्ण तत्कुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्ण परिहार्य तन्नामग्राहमाह-'छणं छणं' इत्यादि, 'क्षणु || हिंसायां' क्षणनं क्षणो-हिंसनं कारणे कार्योपचारात् येन येन प्रकारेण हिंसोत्पद्यते तत्तज्ज्ञपरिज्ञया परिज्ञाय प्रत्याख्या नपरिज्ञया परिहरेद्, यदिवा क्षणः-अवसरः कर्त्तव्यकालस्तं तं ज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञया च आचरेदिति । || किं च-'लोयसन्नं' इत्यादि, 'लोकस्य' गृहस्थलोकस्य संज्ञानं संज्ञा-विषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसंज्ञा वा तां ताच ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत् , कथं?—'सर्वशः' सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः, तस्यैवं
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy