SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १४७ ॥ पेतो वा, स एवंभूतः कं गुणमवाप्नोतीत्याह - ' न लिप्पई'त्यादि, 'न लिप्यते' नावगुण्ठ्यते, केन ? - 'क्षणपदेन' हिंसास्पदेन प्राण्युपमर्दजनितेन, 'क्षणु हिंसायामित्यस्यैतद्रूपं । कोऽसौ ?, वीर इति । किमेतावदेव वीरलक्षणमुतान्यदप्य (स्त्य ) स्तीत्याह - 'से मेहावी 'त्यादि, स 'मेधावी' बुद्धिमान् यः 'अणोद्घातनस्य खेदज्ञः' अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमित्यणंकर्म तस्योत् - प्राबल्येन घातनम् - अपनयनं तस्य तत्र वा खेदज्ञो - निपुणः, इह हि कर्म्मक्षपणोद्यतानां मुमुक्षूणां यः कर्म्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत् – 'जे य' इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टुं - मृगयितुं शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्घातनस्य खेदज्ञ इत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्म्मणो वध्यमानावस्थां बद्धस्पृष्टनिधत्तनिका चितरूपां तदपनयनोपायं च वेत्तीत्येतदभिहितं, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति । स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली ?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वार्त्तेति ?, उच्यते- 'कुसले' इत्यादि, कुशलोऽत्र क्षीणघातिकर्म्माशो विवक्षितः, स च तीर्थकृत् सामान्य केवली वा छद्मस्थो हि कर्म्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्घातिकर्म्मक्षयानो बद्धो भवोपग्राहि कर्म्मसद्भावान्नो मुक्तो, यदिवा छद्मस्थ एवाभिधीयते - 'कुशलः' अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुद लोक. वि. २ उद्देशकः ६ ॥ १४७ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy