________________
इत्यादि, यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्मं पृच्छति, तेनाचार्यादिना धर्मक थिकेनासौ पर्यालोचनीयः - कोऽयं पुरुषो १, मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कं च देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयं एतदुक्तं भवति-धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः - क्षेत्रतः किमिदं क्षेत्रं तच्चनिकैर्भागवतैरन्यैर्वा तज्जातीयः पार्श्वस्थादिभिर्वोत्सर्गचिभिर्वा भावितं, कालतो दुष्पमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽर तद्विष्टमध्यस्थ भावापन्नमेवं पयालोच्य यथायथाऽसौ बुध्यते तथा तथा धर्म्मकथा कार्या, एवमसौ धर्म्मकथायोग्यः, अपरंस्य त्वधिकार एव नास्तीति, उक्तं च – “जो हे वायपक्खमि हेउओ आगमम्मि आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहओ अण्णो ॥ १ ॥” य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च - 'एस' इत्यादि, यो हि पुण्या पुण्यवतोर्धर्मकथा समदृष्टिर्विधिज्ञः श्रोतृविवेचकः 'एषः' अनन्तरोक्तो 'वीरः कर्म्मविदारकः 'प्रशंसितः' श्लाघितः । किंभूतश्च यो भवतीत्याह - 'जे बद्धे' इत्यादि, यो | ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचकः धर्म्मकथोपदेशदानादिना स च तीर्थकुद्गणधर आचार्यादिर्वा यथोक्तधर्म्मकथाविधिज्ञ इति । व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह - 'उ' इत्यादि, ऊर्द्ध ज्योतिष्कादीन् अधो भवनपत्यादीन् तिर्यक्षु मनुष्यादीनिति । किं च - ' से सब्बओ' इत्यादि, 'स' इति धीरो बद्धप्रतिमोचकः 'सर्वतः ' सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति सर्वपरिज्ञाचारी - विशिष्टज्ञानान्वितः सर्वसंवरचारित्रो
१ यो हेतुवादपक्षे हेतुक आगमे आगमिकः । स खसमय प्रज्ञापकः सिद्धान्त विराधकोऽन्यः ॥ १ ॥