SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीआचा लोक.वि.२ राजवृत्तिः उद्देशकः (शी०) ॥१४६॥ CACACAष्ट अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम् , अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो दण्डकशादिना ताडयेदिति, उक्तं च-"तत्थेव य निढवणं बंधण निच्छुभण कडगमद्दो वा । निम्विमयं व नरिंदो करेज संघपि सो कुद्धो॥१॥" तथा तच्चनिकोपासको नन्दबलात् बुद्धोसत्तिकथानकाद्भागवतो वा भल्लिगृहोपाख्यानाद्रौद्रो वा पेढालपुत्रसत्यक्युमाव्यतिकराकणनात् प्रद्वेषमुपगच्छेत् , द्रमककाणकुण्टादिर्वा कश्चित्तमेवोद्दिश्योद्दिश्यअधर्मफलोपदर्शनेनेति । एवमविधिकथनेनेहैव तावद्वाधा, आमुष्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च-'एत्थं पि' इत्यादि, मुमुक्षोः परहितार्थ धर्मकथां कथयतस्तावत्पुण्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने 'अत्रापि धर्मकथायामपि 'श्रेयः' पुण्यमित्येतन्नास्तीत्येवं जानीहि, यदिवाऽसौ राजादिरनाद्रियमाणस्तं साधु धर्मकथिकमपि हन्यात् । कथमित्याह-एत्थंपी'त्यादि, यद्यदसौ पशुवधतर्पणादिक धर्मकारणमुपन्यस्यति तत्तदसौ धर्मकथिकोऽत्रापि श्रेयो न विद्यते इत्येवं प्रतिहन्ति, यदिवा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते-अत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यां चान्यथेति । एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, न पुनः श्रेयो, विधिमंजानानस्य मौनमेव श्रेय इति, उक्तं च-"सावजणवजाणं वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं? ॥१॥" स्यादेतत्-कथं तर्हि धर्मकथा कार्येत्युच्यते-'कोऽयं' १ तत्रैव निष्ठापनं बन्धनं निष्काशनं कटकमदं वा । निर्विषयं वा नरेन्दः कुर्यात्सङ्घमपि स कुद्धः ॥१॥ २ सावधानवद्ययोर्वचनयोर्यो न जानाति |विशेषम् । वक्तुमपि तस्य न क्षमं किमा पुनर्देशनां कर्तुम् ॥१॥ ॥१४६॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy