SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ जातिकुलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तं च-"ज्ञानैश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । तेजस्वी सतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् ॥ १॥" एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबया प्रत्यपकारनिरपेक्षः कथयत्येवं चक्रवत्त्योदेरपि, यथा वा चक्रवर्त्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र च निरीहता विवक्षिता, न पुनरयं नियमः-एकरूपतयैव कथनीयं, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुणं स्थूलबुद्धेस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयं, किमसावभिगृहीतमिथ्याह|ष्टिरनभिगृहीतो वा संशीत्यापन्नो वा?, अभिगृहीतोऽपि कुतीर्थिकैयुद्राहितः स्वत एव वा!, तस्य चैवम्भूतस्य यद्येवं कथयेद्यथा-"दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः। दशध्वजसमा वेश्या, दशवेश्यासमो नृपः॥१॥" तद्भक्तिविषयरुद्रादिदेवताभवनचरितकथने च मोहोदयात्तथाविधकर्मोदये कदाचिदसौ प्रद्वेषमुपगच्छेद्, द्विष्टश्चैतद्विदध्यादित्याह च अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कं च नए ?, एस वीरे पसंसिए, जे बद्धे पडिमोयए, उहं अहं तिरियं दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पई छणपएण, वीरे, से मेहावी अणुग्घायणखेयन्ने, जे य बन्धप मुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के ( सू० १०२) १ तादारुवन०. प्र.
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy