________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशक:५
॥१३८॥
विदध्याः, तत्राप्रमादवता भाव्यं, प्रमादवांश्चेहैव शान्ति न लभते, यत आह-कासंकासे' इत्यादि, यो हि ज्ञाना- दिश्रोतसि तिरश्चीनवत्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्त्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उर्फ च-"इदं तावत् करोम्यद्य, श्वः कर्त्ताऽस्मीति चापरम् । चिन्तयनिह कार्याणि, प्रेत्यार्थ नावबुध्यते ॥१॥" अत्र दधिघटिकाद्रमकद्रष्टान्तो वाच्यः, स चायं-द्रमकः कश्चित् क्वचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावद्भार्या अपत्योसत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिरित्येवंचिन्तामनोरथव्याकुलीकृतान्तःकरण इति तद्दद्ध्यानयने शिरोविण्टलीकाचीवरे आदीयमाने इव शिरो विधूयास्फोटिता दधिषटिकेत्येवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपि कासंकसः-किंकर्त्तव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः-संसारस्तं कषतीति-तदभिमुखो यातीति कासंकषः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेत्याह-'बहुमायी' कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति । अपि च-'कडेण मूर्ट' करणं कृतं तेन मूढःकिंकर्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि-"सोउं सोवणकाले मजणकाले य मजि लोलो । जेमेडं च
१ खपितुं शयनकाले मज्जनकाले च मॉ लोलः (चपलः) । जेमितुं च वराको जेमनकाले च शक्नोति ॥१॥ .
२३८॥