________________
वराओ जेमणकाले न चाएइ ॥१॥" अत्र मम्मणवणिग्दृष्टान्तो वाच्यः, स चैवं कासंकषः बहुमायी कृतेन मूढस्तत्तत्करोति येनात्मनो वैरानुपङ्गो जायत इति, आह च-पुणो तं करेईत्यादि, मायावी परवञ्चनबुद्ध्या पुनरपि तत्लोभानुष्ठान तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं लोभं करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति, उक्तं च-"दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः । यदि ते न प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः॥१॥"
किं पुनः कारणमसुमांस्तत्करोति येनात्मनो वैरं वर्द्धते ?, इत्याह-'जमिणं' इत्यादि, 'यदिति यस्मादस्यैव-विशहैरारोः शरीरकस्य परिबृंहणार्थ प्राणघातादिकाः क्रियाः करोतीति, ते च तेनोपहताः प्राणिनः पुनः शतशो नन्ति,
तंतो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्द्धयतीति, यदिवा यदिदं मयोपदेशप्रायं पौनःपुन्येन कथ्यते तदस्यैव संयमस्य परिबृंहणार्थम्, इदं चापरं कथ्यते–'अमराय' इत्यादि, अमरायतेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते, कोऽसौ ?-'महाश्रद्धी' महती चासो श्रद्धा च महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा, अत्रोदाहरणं-राजगृहे नगरे मगधमेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावभिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलेपान्महती |दुःखासिकाऽभूत्, ततश्च तां परिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायि-किं भवत्या दुःखासिका कारणं?, केन
वा सार्द्धमुषितेति, सा त्ववादीद्-अमरेणेति, कथमसावमर इत्युक्ते तया सद्भावः कथितो निरूपितश्च यावत्तथैवाद्याआ. सू. २४