________________
श्रीआचारावृत्तिः
(शी०) ॥१२८॥
लोक.वि.२ उद्देशका
नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥१॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ, पुरोऽपराहे निजच्छायाम् ॥ २॥" तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति
एयं पस्स मुणी! महब्भयं, नाइवाइज कंचणं, एस वीरे पसंसिए, जे न निविजइ आयाणाए, न मे देइ न कुप्पिज्जा थोवं लड़े न खिंसए, पडिसेहिओ परिणमिजा,
एयं मोणं समणुवासिजासि (सू०८५) तिबेमि ॥ 'एतत् प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भयं भयहेतुत्वात् दुःखमेव महाभयं, तच्च मरणकारणमिति महदित्युच्यते, एतत् मुने! 'पश्य' सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति । यद्येवं तत्किं कुर्यादित्याह-'नाइवाएज' इत्यादि, यतो भोगाभिलषणं महद्भयमतस्तदर्थ 'नातिपातयेत्न व्यथेत 'कश्चन' कमपि जीवमिति, अस्य च शेषव्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यं । भोगनिरीहः प्राणातिपातादिव्रतारूढश्च के गुणमवामोतीत्याह-'एस' इत्यादि, 'एष' इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्मविदारणात् 'प्रशंसितः स्तुतो देवराजादिभिः, क एष वीरो नाम? योऽभिष्ट्रयत इत्यत आह-जे' इत्यादि, यो 'न निर्विद्यते' न खिद्यते न जुगुप्सते, कस्मै ?-'आदानाय' आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्त्वमशेषावारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना(ना)बाधसुखरूपं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति, आह–'म में' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोड
SANSAROKARACLEARCR:
॥१२८॥