________________
प्युपस्थितेऽपि दानावसरे न ददातीतिकृत्वा 'न कुप्येत्' न क्रोधवशगो भूयाद्, भावनीयं च-ममैवैषा कर्मपरिणतरित्यलाभोदयोऽयम्, अनेन चालाभेन कर्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थ तपो भावीति न किश्चित्तूयते, अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत तदपि न निन्देदित्याह-'थोवं' इत्यादि, 'स्तोकम्' अपर्याप्तं 'लटुं' लब्धा न निन्देदातारं दत्तं वा, तथाहि-कतिचित्सिक्थानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय लवणाहारो वा अस्माकं नास्तीत्यन्नं ददस्वेत्येवं अत्युद्वत्तच्छात्रवन्न विदध्यात् । किं च-'पडिसेहिओं' इत्यादि, 'प्रतिषिद्धा' अदित्सितस्तस्मादेव प्रदेशात् परिणमेत्' निवत्त, क्षणमपि न तिष्ठेन्न दौमनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनीमपवदेद्-धिक्ते गृहवासमिति, उक्कं च "दिहाऽसि कसेरुमई ! अणुभूयासि कसेरुमइ!। पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं ॥१॥" द इत्यादि । पठ्यते च-'पडिलाभिओ परिणमेजा" प्रतिलाभितः-प्राप्तभिक्षादिलाभः सन् परिणमेत्, नोच्चावचालापैः तत्रैव
संस्तवं विदध्याद्, वैतालिकवद्दातारं नोप्रासयेदिति । उपसंहरन्नाह–'एयं' इत्यादि, 'एतत् प्रव्रज्यानिर्वेदरूपं अदाKानाकोपनं स्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मौनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुराप-18
संयमः सन् ‘समनुवासयेः' सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ, ब्रवीमि पूर्ववत् ॥ लोकविजयाध्ययनचतुर्थोद्देशकटीका समाप्ता॥
१ दृष्टाऽसि उदारमते । अनुभूताऽसि उदारमते!। पीतमेव ते पानीयं वरं तव नाम न दर्शम् ॥१॥