________________
क्षान्त्यादिलक्षणं दुर्गतिप्रसूतिनिषेधकं 'न जानाति' न वेत्ति । एतच्च तीर्थकृदाहेति दर्शयति-'उदाहु' इत्यादि, उत्प्राबल्येनाह उदाह-उक्तवान्, कोऽसौ ?-वीरः-अपगतसंसारभयस्तीर्थकृदित्यर्थः, किमुक्तवान्, तदेव पूर्वोक्तं वाचा दर्शयति–'अप्रमादः' कर्त्तव्यः, को-'महामोहे' अङ्गनाभिष्वङ्ग एव, महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम्। आह च-'अलम्' इत्यादि, 'अलं' पर्याप्तं, कस्य ?–'कुशलस्य' निपुणस्य सूक्ष्मेक्षिणः, केनालं?-मद्यविषयकषायनिद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक इति । स्यात्-किमालम्ब्य प्रमादेनालमिति', उच्यते-'सन्ति' इत्यादि, शमनं शान्तिः-अशेषकर्मापगमोऽतो मोक्ष एव शान्तिरिति, नियन्ते प्राणिनः पौनःपुन्येन यत्र चतुर्गतिके संसारे स मरणः-संसारः शान्तिश्च मरणं च शान्तिमरणं, समाहारद्वन्द्वस्तत् 'संप्रेक्ष्य' पर्या|लोच्य, प्रमादवतः संसारानुपरमस्तपरित्यागाच मोक्ष इत्येतद्विचार्येति हृदयं, स वा कुशलः प्रेक्ष्य विषयकषायप्रमादं न | विदध्याद्, अथवा शान्त्या-उपशमेन मरणं-मरणावधिं यावत् तिष्ठतो यत्फलं भवति तसर्यालोच्य प्रमादं न कुर्या-5 दिति । किं च-'भेउर' इत्यादि, प्रमादो हि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः, तच्च शरीरं भिदुरधर्म, स्वत एव भिद्यत इति भिदुरं स एव धर्म:-स्वभावो यस्य तद्भिदुरधर्म एतत् 'समीक्ष्य' पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह-'नालं'इत्यादि, 'नालं' न समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भोगाः एतत् पश्य' जानीहि, अतोऽलं तव कुशल! 'एभिः' प्रमादमयैर्दुःखकारणस्वभावैविषयैरुपभोगैरिति, न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च-“यल्लोके ब्रीहियवं, हिरण्यं पशवः स्त्रियः।