________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १२७ ॥
णतेर्न स्यादृ, अथवा येन केनचिद्धेतुना कर्म्मबन्धः स्यात्तन्न कुर्यात्, तत्र न वर्त्तेतेत्यर्थः, यदिवा येनैव राज्योपभोगादिना कर्म्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः 'स्याद्' भवेत्तेनैव तथाभूतपरिणामवशान्न स्यादिति । एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह - 'इणमेव' इत्यादि, इदमेव हेतुवैचित्र्यं 'न बुध्यन्ते' न संजानते, के ?ये जना मौनीन्द्रोपदेशविकला मोहेन-अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः-छादितास्तत्त्वविपर्यस्तमतयो मोहनीयोदयाद्भवन्ति । मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति- 'थीभि' इत्यादि, स्त्रीभिः - अङ्गनाभिर्भूत्क्षेपादिविभ्रमैरसौ लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्म्मविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो विनष्टाः, अपरानपि असकृदुपदेशदानेन विनाशयन्तीत्याह - 'ते भो !' इत्यादि, 'ते' स्त्रीभिः प्रव्यथिता भो ! इत्यामन्त्रणे एतद्वदन्ति - यथैतानि ख्यादीनि 'आयतनानि' उपभोगास्पदभूतानि वर्त्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्थादित्याह - 'से' इत्यादि, तेषां 'से' इत्येतत् प्रव्यथनमायतनभणनं वा 'दुःखाय' भ वति - शारीरमानसासातवेदनीयोदयाय जायते, किं च- 'मोहाए' मोहनीय कर्म्मबन्धनाय अज्ञानाय वेति, तथा 'माराए' मरणाय, ततोऽपि 'नरगाए' नरकाय नरकगमनार्थे, पुनरपि 'नरगतिरिक्खाए' ततोऽपि नरकादुद्धृत्त्य तिरश्येतत्प्रभवति, तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयं । स एवमङ्गनापाङ्गविलोकनाक्षितस्तासु तासु योनिषु पर्यटन्नात्महितं न जानातीत्याह - 'सययं' इत्यादि, सततम्-अनवरतं दुःखाभिभूतो मूढो 'धर्म'
लोक. वि. २ उद्देशकः ४
॥ १२७ ॥