________________
आ. सू. २२
परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति एतच्च प्रागेव व्याख्यातमिति नेह प्रतायते ॥ तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्त्तव्यं तदुपदिशतीत्याह—
⋅
आसं च छन्दं च विगिंच धीरे !, तुमं चेव तं सलमाहहु, जेण सिया तेण नो सिया, इणमेव नावबुज्झति जे जणा मोहपाउडा, थीभि लोए पव्वहिए, ते भो ! वयंति एयाई आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्मं संपेहाए, नालं पास अलं ते एएहिं (सू० ८४)
'आशां' भोगाकाङ्क्षां, चः समुच्चये, छन्दनं छन्दः - परानुवृत्त्या भोगाभिप्रायस्तं च चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दौ 'वेविक्ष्व' पृथक्कुरु त्यज 'धीर !' धी:- बुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागे च दुःखमेव केवलं न तत्प्राप्तिरिति, आह च — 'तुमं चेव' इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते - त्वमेव तद्भोगाशादिकं शल्यमाहृत्य - स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोगं, यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति तैरेव न भवतीत्याह - ' जेण सिआ तेण नो सिया' येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात् कर्म्मपरि