SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ तीत्याह-बाले' इत्यादि, बालो नाम रागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसगैं, निहन्यत इति | निहः, निपूर्वाद्धन्तेः कर्मणि डः, अथवा स्निह्यत इति स्त्रिहः-स्नेहवान् रागीत्यर्थः, अत एवाह-'कामसमणुन्ने' कामाःइच्छामदनरूपाः सम्यग् मनोज्ञा यस्य स तथा, अथवा सह मनोहर्वर्त्तत इति समनोज्ञो, गमकत्वात्सापेक्षस्यापि समासः, कामैः सह मनोज्ञः कामसमनोज्ञो, यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनुज्ञः, एवंभूतश्च किंभूतो भवतीत्याह-'असमियदुक्खे' अशमितम्-अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःखोऽत एव दुःखी शारीरमानसाभ्यां दुःखाभ्यां, तत्र शारीरं कण्टकशस्त्रगण्डलूतादिसमुत्थं मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिद्यदौर्भाग्यदौर्मनस्यकृतं तद्विरूपमपि दुःखं विद्यते यस्यासौ दुःखी, एवंभूतश्च सन् किमवाप्नोतीत्याह-दुक्खाणं' इत्यादि, दुःखाना-शारीरमानसानामावर्त्त-पौनःपुन्यभवनमनुपरिवर्त्तते, दुःखावर्त्तावमग्नो वंभ्रम्यत इत्यर्थः, । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ लोकविजयस्य तृतीयोद्देशकटीका समाप्ता ॥३॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy