________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १२४ ॥
तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति, यदि वा - आदानीयम् - आदातव्यं भोगाङ्गं द्विपदचतुष्पदधनधान्यहिरण्यादि तदादाय गृहीत्वा, अथवा मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं - कर्म्मादाय, किंभूतो भवतीत्याह - 'तस्मिन्' ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठति - नात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति- 'वित' इत्यादि, वितथम् - असद्भूतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्याखेदज्ञःअकुशलः खेदज्ञो वाऽसंयमस्थाने तस्मिंश्च साम्प्रतेक्ष्या चरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽभ्युपपन्नो भवतीतियावत्, अथवा वितथमिति आदानीयभोगाङ्गव्यतिरिक्तं संयमस्थानं तत्प्राप्य खेदज्ञो निपुणस्तस्मिन् स्थाने आदानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयन्तीत्यर्थः । अयं चोपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेशं प्रवर्त्तमानस्य दीयते, यस्त्ववगत हेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च
उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खामेव आवहं अणुपरियहइ ( सू० ८१ ) तिबेमि || लोकविजये तृतीयोदेशकः ॥
उद्दिश्यते इत्युद्देशः - उपदेशः सदसत्कर्त्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यकः - सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो - नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य द्रागेव मोक्षगमनादिति भावः कः पुनर्यथोंपदेशकारी न भव
लोक.वि. २ उद्देशकः३
॥ १२४ ॥