________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशकः ४
॥१२५॥
साम्प्रतं चतुर्थस्य व्याख्या प्रअनन्तरसूत्रसम्बन्धः ‘दुक्खी दुक्लाममणुणे', ते च का
तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते व णं एगया नियया पुट्विं परिवयंति, सो वा ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं पत्तेयं
सायं, भोगा मे व अणुसोयन्ति इहमेगेसिं माणवाणं (सू०८२) उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते-भोगेष्वनभिषक्तेन भाव्यं, यतो भोगिनामपाया दर्यन्ते
प्रागुक्तं, ते चामी-'तओ से एगया' इत्यादि, अनन्तरसूत्रसम्बन्धः 'दुक्खी दुक्खाणमेव आवटुं अणुपरियट्टई' त्ति, तानि चामूनि दुःखानि 'तओ से' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'बाले पुण निहे कामसमणुण्णे', ते च कामा दुःखात्मका एव, तत्र चासक्तस्य धातुक्षयभगन्दरादयो रोगाः समुपद्यन्ते इत्यतोऽपदिश्यते-'तत' इति कामानुषङ्गात् कम्र्मोपचयस्ततोऽपि पञ्चत्वं तस्मादपि नरकभवो नरकान्निपेककललार्बुदपशीव्यूहगर्भप्रसवादिर्जातस्य च रोगाः प्रादुःप्यन्ति, 'से' तस्य कामानुषक्तमनसः 'एकदे'त्यसातावेदनीयविपाकोदये 'रोगसमुत्पादा' इति रोगाणां-शिरोऽतिशूलादीनां समुत्पादाः-प्रादुर्भावाः 'समुत्पद्यन्ते' प्रादुर्भवन्ति, तस्यां च रोगावस्थायां किंभूतो भवत्यसावित्यत आह–'जेहिं' इत्यादि, यैर्वा 'सार्द्धमसौ संवसति, त एवैकदा निजाः पूर्व परिवदन्ति, स वा तान्निजान् पश्चात्परिवदेत्, नालं 'ते' तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा, इति ज्ञात्वा दुःखं प्रत्येकं सातं च स्वकृत
॥१२५॥