SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) लोक.वि.२ उद्देशकः३ ॥१२॥ चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालं गच्छतीत्यर्थः, तासु च नानाप्रकारासु योनिषु 'विरूपरूपान्' नानाप्रकारान् 'स्पर्शान्' दुःखानुभवान् परिसंवेदयते, अनुभवतीत्यर्थः ॥ तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धबधिरभूयं वा गतः सन्नावबुध्यते कर्त्तव्यं न जानाति कर्मविपाकं नावगच्छति संसारापसदतां नावधारयति हिताहिते न गणयति औचित्यमित्यनवगततत्त्वो मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति, आह च से अबुज्झमाणे हओवहए जाईमरणं अणुपरियमाणे, जीवियं पुढो पियं इहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरतं विरत्तं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं वाले जीविउकामे लालप्पमाणे मूढे विपरियासमुवेइ (सू०७९) 'से' इत्युच्चैोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिसभावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैर्गोत्रगर्वाध्मातत्यक्तोचितविधेयविद्वजनवदनसमुद्भूतशब्दायशःपटहहतत्वाद्धतः अभिमानोसादितानेकभवकोटिनीचैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्च मरणं च समाहारद्वन्द्वस्तद् 'अनुपरिवर्त्तमानः' पुनर्जन्म पुनर्मरणमित्येवमरहट्टयटीयन्त्रन्यायेन संसारोदरे ॥१२॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy