________________
आ. सू. २१
विवर्त्तमानः, आवीची मरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति, आह चं- 'जीवितम् ' आयुष्कानुपरमलक्षणमसंयमजीवितं वा 'पृथग्' इति प्रत्येकं प्रतिप्राणि 'प्रियं' दयितं वल्लभम् 'इहे'ति अस्मिन् संसारे 'एकेषाम्' अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनां तथाहि - दीर्घजीवनार्थं तास्ता रसायनादिकाः क्रियाः सत्त्वोपघातकारिणीः कुर्वते, तथा 'क्षेत्रं' शालिक्षेत्रादि 'वास्तु' धवलगृहादि मम इदमित्येवमाचरतां सतां तत्क्षेत्रादिकं प्रेयो भवति, किं च- 'आरक्तम्' ईषद्रकं व स्त्रादि 'विरक्तं ' विगतरागं विविधरागं वा 'मणिः' इति रलवैडूर्येन्द्रनीलादि 'कुण्डलं' कर्णाभरणं हिरण्येन सह स्त्रीः परिगृह्य 'तत्रैव' क्षेत्रवास्त्वा रक्तविरक्तवस्त्रमणिकुण्ड लरूयादौ 'रक्ता' गृद्धा अध्युपपन्ना मूढा विपर्यासमुपयान्ति, वदन्ति च - नात्र 'तपो वा' अनशनादिलक्षणं 'दमो वा' इन्द्रियनोइन्द्रियोपशमलक्षणो 'नियमो वा' अहिंसाव्रतलक्षणः फलवान् दृश्यते, तथाहि - तपोनियमोपपेतस्यापि कायक्लेश भोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीति चेद्र्युद्राहितस्योल्लापः, किं च- दृष्टहानिरदृष्टकल्पना च पापीयसीति, तदेवं साम्प्रतेक्षी भोगसङ्ग विहितैकपुरुषार्थबुद्धिः सम्पूर्ण यथावसरसम्पादितविषयोपभोगं 'बालः' अज्ञः 'जीवितुकामः' आयुष्कानुभवनमभिलषन् 'लालप्यमानः' भोगार्थमत्यर्थे लपन् वाग्दण्डं करोति, तद्यथा - अत्र तपो दमो नियमो वा फलवान्न दृश्यत इत्येवमर्थं ब्रुवन् मूढः अबुध्यमानो हतोपहतो जातिमरणमनुपरिवर्त्तमानो जीवितक्षेत्रख्यादिलोभपरिमोहितमनाः 'विपर्यासमुपैति' तत्त्वेतत्त्वाभिनिवेशम् अतत्त्वे च तत्त्वाभिनिवेशं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति, उक्तं च- “ दाराः परिभवकारा बन्धुजनो